Sanskrit Verses
सप्त-चिरजीवि-स्तुतिः
अश्वत्थामा बलिर्व्यासो हनूमांच विभीषणः । कृपः परशुरामध सप्तेते चिरजीविनः । । १ ।।
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ।। २ । ।
पुण्यजन-स्तुतिः
पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ।।
हकारादि-पञ्चदेव-स्तुतिः
हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् ।
पञ्चर्क हं स्मरेन्नित्यं घोरसङ्कटनाशनम् ।।
पञ्चदेवी-स्तुतिः
उमा उषा च वैदेही रमा गङ्गेति पञ्वकम् ।
प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ।।
पञ्चकन्या-स्तुतिः
अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा ।
पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ।।
सप्तर्षि-स्मरणम्
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गोतमः ।
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।।१
तेषां वंशानुवंशानां वेदमन्त्रस्य द्रष्टृणाम् ।
संस्मरामि सदा भक्त्या धर्ममार्गप्रदर्शकान् ।। २ । ।
सप्तपुरी-स्तुतिः
अयोध्या मथुरा माया काशी काञ्चवी ह्यवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः । ।
राजा
वेश्या यमश्चाग्निः, तस्करो बालयाचकौ । पर दुःखं न जानन्ति, अष्टमो ग्रामकण्टकः ॥
ये आठो कभी दुसरों
का दुःख नहीं समझ
सकते ...
राजा, वेश्या, यमराज,
अग्नि, चोर, छोटा बच्चा,
भिखारी और कर
वसूल करने वाला
Comments
Post a Comment